July 19, 2012

Type of attacks on our culture.



भारतभञ्जनम् - ग्रन्थसारः

भारतदेशस्य विदलनार्थं विश्वस्तरे बह्व्यः शक्तयः प्रयतमानाः इत्यस्मिन् विषये 'Breaking India'  इत्ययं ग्रन्थः २०११ वत्सरे प्रकाशितः। 'भारतीयसंस्कृतेः भञ्जनेन  देशस्य भञ्जनं शक्यम्' इत्येतं सूत्रम् अवलंब्य उद्यमन्ति एताः शक्तयः। तत्र संस्कृतपण्डितैः ज्ञातव्यानि विषयानि बहूनि सन्तीत्यतः ग्रन्थस्य परिचयः क्रियते। ग्रन्थलेखकयोः महतः परिशोधस्य फलम् अयं ग्रन्थः। लेखकयोः एकः राजीव मल्होत्रा नाम अमेरिकावासी, अन्यः अरविन्दन् नीलकन्दन् नाम चेन्नै निवासी। भारते समाजसंयोजकशक्तयः कथम् शक्तिहीनाः सञ्जाताः, वियोजकशक्तयः बलिष्ठाः सञ्जाताः इत्येवम् अस्य ग्रन्थस्य विषयः। विघटनशक्तीनाम् परिशीलनमेव अस्य ग्रन्थस्य उद्देशः इत्यतः संयोजकशक्तीनां विश्लेषणं न कृतम्। विघटनशक्तिषु काश्चन आन्तरिकशक्तयः, काश्चन बाह्यशक्तयः। प्रजासु मिथः भेदभावोत्पादनम्, तदनु जनानाम् जातिरूपेण विभजनम् (racial division), पश्चाच्च शनैः शनैः अन्तःकलहोत्पादनेन देशस्य विभजनम् इत्ययं विघटनशक्तीनाम् व्यूहः अत्र बहुभिः उदाहरणैः निरूपितः।

प्रथमं तावत् अयम् प्रश्नः विचारितः। भारतस्य विदलने को वा उत्सुकः? किं प्रयोजनमुद्दिश्य इति। अस्माकम् देशः अद्यतनप्रपञ्चे आर्थिक-राजकीयक्षेत्रयोः महा- शक्तिमत्त्वेन वर्धमानः दृश्यते। नातिदीर्घे एव काले अमेरिका, चैना इत्यादि देशैः सह स्पर्धितुं समर्थः इति ते मत्सरग्रस्ताः। चैना देशः अस्माकमपेक्षया शक्तिमान्, पश्चिमदेशीयानाम् ईर्ष्यास्थानत्वेऽपि सुदृढं पालनं वर्तते इत्यतः तत्र हस्तक्षेपं कर्तुम् अशक्ताः पाश्चात्याः अस्माकं देशे बहुभिः प्रकारैः हस्तक्षेपं कुर्वन्तः सन्ति (p 415, 419)। देशेऽस्मिन् पालनादौर्बल्यं, देशाभिमानह्रासः, शृङ्खलारहित-प्रजास्वाम्यं च दृश्यन्ते इत्यतः अत्र हस्तक्षेपः अतीव सुकरः। अलेग्जान्डरस्य काले अम्भिः, पृथ्विराजस्य काले जयसिंहः आस्ताम्, अधुना तु बहवः तादृशाः सांस्कृतिक-राजकीय-क्षेत्रेषु अन्येषां परिष्वङ्गे लाल्यमाना वर्तन्ते। तादृशानां स्वरूपाविष्करणमपि अस्मिन् ग्रन्थे कृतम्। अस्यां विषमायां स्थितावपि वैदिको धर्मः संपूर्णे भारते सुव्यवस्थितः आसीत्, परं तु राजकीयस्तरे देशस्य भञ्जनं जातम् आक्रमद्भिः गजनीजनैः। पश्चाद्भाविनः पाश्चात्यास्तु संस्कृतेः विश्लेषणेन, कुव्याख्यानप्रज्ञया च अस्मासु मिथः भेदबीजावापम् अकुर्वन्।
अधुना तु प्रपञ्चीकरणस्य पृष्ठभूमिकायाम् अन्यविषयैः सह धर्मोऽपि प्रपञ्चीकृतः। हिन्दुधर्मः अस्माकं देशे बहुजनादृतः भवतु नाम, परं तु प्रपञ्चस्तरे अल्पसञ्ख्याकः वर्तते। विश्वस्तरे अल्पीयान्, लघुतरश्च। सर्वेषां धर्माणां समानं प्रामाण्यम् अङ्गीकरोति हिन्दुधर्मः,अन्यः कश्चिदपि एवंविधः न दृश्यते। अन्ये धर्माः मतपरिवर्तने बद्धकङ्कणाः। एवंभूतानां धर्माणां मध्ये यज्ञपशुरूपेण लभ्यते हिन्दुधर्मः। तथैव भारतेदेशोऽपि दृश्यते। शक्तिहीने राष्ट्रे स्वप्रभावं दर्शयितुं मावोपन्थीया अपि उद्युक्ताः। राष्ट्रविभजनं तेषाम् अनुकूलं भवति। अतः अस्मिन् ग्रन्थे तिस्रः शक्तयः उल्लिखिताः – 1) पाश्चात्यदेशीयाः, 2) इस्लांधर्मीयाः, 3) चैनादेशश्च (p 413)। भग्ने देशे शकलान् स्वायत्तीकर्तुम् व्यूहरचनां कुर्वन्ति ते।

यद्यपि तिसॄणामपि शक्तीनाम् उल्लेखः कृतः, तथापि पाश्चात्यदेशानामेव आक्रमणव्यूहः ग्रन्थेऽस्मिन् प्रपञ्चितः। त्रिशूलः पन्थाः (three-pronged policy) दृश्यते तेषाम् - १)विद्वांसः, २) ईसाधर्मसंस्थाः तथा च ३)पाश्चात्यराष्ट्रसंबन्धिसंस्थाः इति त्रीणि शस्त्राणि  परस्परोपष्टम्बकरूपेण कार्यं कुर्वाणानि दृश्यन्ते (p 246)। तिस्रः अपि शक्तयः व्यूहरचनाकुशलाः।
प्रथमं तावद् विद्वांसः:
कर्तुमकर्तुम् अन्यथाकर्तुं च शक्ताः विद्वांसः। आक्रमितदेशेषु वर्तमानानां भाषाणां शास्त्राणाम् च अध्ययनम्, तेषां कुव्याख्यानेन तद्देशीयपण्डितानां सम्मोहनं, जनानां विभजनं च कर्तुं च क्षमाः एते। क्रिस्तोः सप्तदशशतकादारभ्य बहवः पाश्चात्य विद्वांसः प्रायेण कुदृष्ट्या एव अस्काकं ग्रन्थानाम् अध्ययनमकुर्वन्, अद्यापि कुर्वन्ति। अत्र नैकानि उदाहरणानि दत्तानि अस्मिन् ग्रन्थे।
·        माक्स् मुल्लरमहाशयः महान् लोकप्रियः अस्मिन् देशे। स्वमित्रं प्रति प्रेषिते कश्मिन्श्चित् सन्देशे एवम् लिखति - 'वेदानां मूलानि एतेभ्यः दर्शितव्यानि, येन भारतीय संस्कृतेः उन्मूलनं भवेत्' इति (p 27)। वेदानाम् आङ्ग्लभाषानुवादः अनेन उद्देशेनैव कृतः।देवासुरसङ्ग्रामप्रस्तावे सर्वत्र सात्विक-तामसादि गुणविभागं विसृज्य आर्य-द्रविड सङ्ग्राम रुपेण प्रस्तुत्य द्रविडोद्यमस्य बीजानि उप्तवान्। ऋग्वेदस्य पञ्चममण्डलस्थ 'अनास' (5-29-10) इत्यत्र सायणेन 'आस्यरहितान्, अशब्दान्, मूकान्' इति व्याख्यातम्। माक्स् मुल्लरस्तु 'नासरहितान्' इति व्याख्याय ते द्रविडा एव इति निर्धारितवान् (p 53)। तत्कालीनः रिस्ली नाम प्रशासकः एतं विषयं झटिति स्वीकृत्य जनानां नासिकापरिशीलनार्थं 'नासमितिः' इति प्रकल्प्य जनानां विभागम् अकरोत्। अल्पनासीयाः द्रविडाः इति, दीर्घनासीयाः आर्या इति च व्यभजत्। आङ्ग्लेयानाम् आगमनात् प्राक् द्रविडजाति नाम्ना भेदभावः नासीत्। भेदोत्पादनेन धर्मपरिवर्तनं सुकरं भवेदिति प्रशंसितं माक्स् मुल्लरेण (p 52).
·        विलियम् जोन्स् नामकः विद्वान् भारतीयभाषाणाम् अध्ययनं कृत्वा स्वपरिकल्पितयोः जात्योर्मिथः कलहोत्पादनाय भाषाशास्त्रसिद्धान्तान् उपयुक्तवान् (p 42)। द्रविडभाषाणां संस्कृतेन सह न कश्चित् संबन्धः इति तस्य प्रतिपादनम्। बैबिल् कथनानुसारेण विश्वस्य सृष्टिः क्रिस्तोः पूर्वं ४००४ तमे वर्षे सेप्टेम्बर् मासे भगवता कृता इति उषर् नामकेन प्रतिपादितम् (Ussher Chronology इति अन्तर्जालमध्ये द्रष्टुम् शक्नुमः)। ततः प्राग्भाविन्याः कस्याश्चित् संस्कृतेः अस्तित्वाभ्युपगमः न कर्तुम् शक्यते। सर्वस्यापि अर्वाचीनत्वमेव स्वीकर्तव्यम्, भारतीयानाम् युगानां विश्लेषणं त्यक्तव्यम् इति तस्य वादः। बैबिल् मध्ये वर्णितस्य हाम् नामक शप्तपुरुषस्यैव सन्ततिः भारतीयाः इति सिद्धान्तीकृत्य तेषां धर्मान्तरीकरणं पवित्रविधिरूपेण प्रदर्शितवान् अयम् (p 44)।
·        पाश्चात्यविश्वविद्यालयेषु (South Asia Studies) नाम्ना शोधकार्यक्रमाः सततवर्तिनः दृश्यन्ते। तेषु द्रविडोद्यमानां प्रोत्साहः, भारतीयसंस्कृतेः न्यूनीकरणम् इत्ययं व्यूहः अवलम्बितः। भारते या वर्णव्यवस्था दृश्यते, तां जातिव्यवस्थारूपेण प्रदर्श्य भारतीयाः जातिभेदवादिनः, आर्याः, (मुख्यतः ब्राह्मणाः) द्रविडानां (दलितानां) दमनं कृतवन्तः इत्येतान् वादान् उपस्थाप्य ग्रन्थान्  निर्मितवन्तः (p 65)।
·        भाषाशास्त्रमपि अत्र सहायकं भवति (p 181)। द्रविडभाषाणाम् अध्ययनेन द्रविडानां भाषा संस्कृतेन सह साम्यं न भजति इति, द्रविडानाम् आफ़्रिकादेशस्थैः नीग्रोजातीयैः सह साम्यं वर्तते इति च तेषां शोधफलम्। आर्याः देशान्तराद् आगत्य एतेषां संदमनं कृतवन्तः इति पाश्चात्यविद्याविदां वादः। अयं वादः धर्मपरिवर्तने सहकारको भवति।
·        अन्तर्जातीयसमावेशेष्वपि एते विद्वांसः भारतदेशमुद्दिश्य अयं देशः जातिभेददृष्टेः मातृका इतेवम् अभियोगापादनम् अकुर्वन्।
भारतीयविद्वांसः द्विविधाः - वामपक्षीयाः, धर्मपरिवर्तकाश्च।वामपक्षीयाणां सिद्धान्तरीत्या कस्यचित् धर्मस्य पक्षपातिता निषिद्धा, तथापि एते केवलं हिन्दुधर्मस्यैव निन्दकाः अन्यधर्माणाम् अनुमोदकाः दृश्यन्ते। ग्रन्थे  बहूनि उदाहरणानि दत्तानि। रोमिला थापर् नाम्नी विदुषी (p 260) भारतसंस्कृतेः द्वेषिणी। पुराणानि सर्वाण्यपि दलितानां दमनं निरूपयन्तीति, ज्ञानिनां ब्रह्मानुभवः, समाधिस्थितिः इत्येतत्सर्वं मनोरुग्मता इति च लिखन्ती पाश्चात्यानां दयिततमा अभवत्। मिलियन् डालर् पुरस्कारेण सम्मानिता अपि।
अस्माकं वामपक्षीयाः पाश्चात्यदेशानां वामेतरवर्गीयैः सह मिलित्वा देशविभजने सहायकाः भवन्तीति विस्मापकः विषयः। वामपक्षीयाणां पक्षपातिता अपि अस्मिन् ग्रन्थे प्रदर्शिता।
पाश्चात्यविद्वांसः स्वदेशं प्रति, धर्मं प्रति च अतीव श्रद्धालवः , अन्यराष्ट्राणां विदलने व्यूहनिर्मातारः भवन्ति। भारतराष्ट्रं दलितस्तान्, मोगलिस्तान्, द्रविडस्तान् इत्यादि रुपेण बहुधा विभक्तुं शक्यते इति तेषां मतम्। अयं विषयः तेषाम् अन्तर्जालपुटेष्वपि  दृश्यते। भारतराष्ट्रनाम्ना कदापि किञ्चिद् राष्ट्रं न आसीत्, कदापि एकच्छत्रपालने न आसीत्,अपि तु आङ्ग्लेयानां पालनसमये एव बहूनि राज्यानि एकत्रीकृतानि, अतः कृत्रिमोऽयं देशः, तथा च विभजनीयः, इत्येषा तेषां कुबुद्धिः (p 248, 328)। वेदकालादारभ्य 'गङ्गे च यमुने चैव', 'भरतवर्षे भरतखण्डे' इत्यादि वचनेषु  आसेतुहिमगिरिं भारतराष्ट्रमुद्दिश्यैव प्रस्तावः कृतः। अष्टादशशक्तिपीठसहितमिति, द्वादशज्योतिर्लिङ्गयुक्तमिति बहुधा समग्रस्य भारतस्य वर्णनं यत् दृश्यते तत्सर्वं एतैः निराक्रियते। अस्माकं आधुनिका अपि एतं वादम् अङ्गीकुर्वन्ति।
पुराणप्रस्तावे एतैः कृतानाम् कुव्याख्यानानां सीमा एव न दृश्यते (p 251)। शिवः गणेशश्च पार्वतीं कामयमानाः युद्धमकुरुताम् इति, लक्ष्मणः सीतां काङ्क्षमाणः आसीदिति, कृष्णः, शिवश्च स्त्रीलंपटाविति व्याख्यातॄणां मनोरुग्मताद्योतकानि व्याख्यानानि दृश्यन्ते। तेषां व्याख्यानानि अत्रत्याः धर्मपरिवर्तकाः पाठ्यप्रणालीरूपेण परिवर्त्य अज्ञजनानां धर्मान्तरीकरणे उपयोजयन्ति।
राष्ट्रनिर्माणे विदुषां यावान् प्रभावः तावान् राष्ट्रभञ्जने अपि वर्तते इति सुस्पष्टं निरूपितम् अस्मिन् ग्रन्थे। अघटितघटनसमर्थाः पण्डिताः  इत्यवधेयम्।
ईसाप्रचारकाः (Evangelists):
आङ्ग्लेयानाम् आगमनकालादारभ्य अद्यावधि एतेषां कार्यक्रमाः वर्धमाना दृश्यन्ते। विदुषां शोधग्रन्थानामाधारेण एते स्वानुकूलं व्यूहं निर्मान्ति। विद्वांसस्तु शास्त्राध्ययनपाटवेन वक्रीकरणयोग्यान् विषयान् प्रदर्शयन्ति। धर्मप्रचारकाः तस्मिन् पथि अग्रे गत्वा लक्ष्यमुपयान्ति। बहून्युदाहरणानि दर्शितानि अस्मिन् विषये।
·        सप्तदशशतके भारतं प्रति आगतः राबर्ट् डि नोबिलि नामा विद्वान् संस्कृते असामान्यं पाण्डित्यं संपाद्य ब्राह्मणवेषेण पर्यटनमकरोत्, रोम् ऋषिः इति ख्यातः आसीत्। सः पण्डितप्रतारकः। पञ्चमवेदो लब्धः इति महता कोलाहलेन उद्घुष्य स्वकल्पितं ग्रन्थं (जीसस् मतानुसारि) अदर्शयत् (p37, 108)। तत्कालीनैः पाश्चात्यपण्डितैः एव तस्य प्रामाण्यं निराकृतम्। ग्रन्थस्तु अधुनाऽपि फ़्रान्स् देशस्य म्यूज़ियं मध्ये लभ्यते। माक्स् मुल्लरस्तु नोबिलि महाशयस्य धर्मशीलित्वं अभ्यनन्दत्।
·        थामस् नामा जीसस् शिष्यः कश्चित् जीससस्य मरणानन्तरम् केरलदेशं प्राप्य जीसस् धर्मस्य प्रचारमकरोत् इति काचित् जनश्रुतिः धर्मपरिवर्तकैः सृष्टा। थामस् एव तिरुवाल्वारस्य गुरुः आसीत्, तस्य शुश्रूषणेन तिरुक्कुरल् ग्रन्थः रचितः इत्यपि वादः उपस्थापितः। अयं वादः अधुनाऽपि प्रस्तूयते तैः(p 96, 97)।
·        अस्मिन्नेव मार्गे १९७० वत्सरे धर्मप्रचारकस्य कश्चित् ग्रन्थः तमिल सर्वकारस्य मन्त्रिणा आविष्कृतः। संस्कृत भाषा थामसेन आनीता, ब्राह्मणाधमाः एतां भाषां स्वायत्तीकृत्य रचनाः अकुर्वन् इति अस्य ग्रन्थस्य विषयः।
·        तथैव शबरिमलप्रान्ते शिवमन्दिरस्य नातिदूरे क्रिस्तोः चिह्नः लब्धः इति जनश्रुतिं कल्पयित्वा तत्र स्थानं प्राप्तुं यत्नमकुर्वन् (p 95)। यदा तत्रत्याः पुरावस्तुविभागेन परिशीलनाय आग्रहमकुर्वन् तदा सा शिला निगूहिता आसीत् (p 95)।
·        ईसाप्रचारकैः अस्माकं सिद्धान्तानामपि विकरणं बहुधा क्रियते। शैवसिद्धान्तोऽपि जीसस् बोधनैः सम्बद्ध इति, मुरुगो नाम कश्चित् जीसशिष्यस्य अपभ्रंशरूपः इति च तैः व्याख्यायते (p 104)।
·        भारतदेशस्य वर्णेषु मिथः वर्गद्वेषजननं, केषुचित् आत्मन्यूनताभावोत्पादनेन हिन्दुधर्मविमुखीकरणं तथा च तेषां स्वपरिष्वङ्गे स्वीकरणम् इत्येषा तेषां प्रणाली।
·        जाषुवा प्राजेक्ट् नाम्ना काचित् प्रणाली 'आत्मनां संचयः' (harvesting of souls) इत्यनेन उद्देशेन २००० वत्सरे आरब्धा। अस्यां प्रणाल्यां समग्रे राष्ट्रे जनानां धर्मपरिवर्तनमेव कर्तव्यतया निर्दिष्टम् (p 353)।
·        मावोपन्थीयैः सिद्धान्तरीत्या धर्मव्यतिरेकिभिः  भवितव्यम्। तथापि ते अटवीप्रान्तेषु जीसस् धर्मेभ्यः साहाय्यं प्राप्य प्रतिफलरूपेण अटवीमार्गेषु तेषां रक्षणं कुर्वन्तः गिरिजनानां धर्मपरिवर्तने तेषां सहायकाः भवन्ति (p 383)।
·        यदा यदा जनेषु मिथः विवादः प्रचलति, तदा जीससीयानामुपरि व्याघातः कृतः ब्राह्मणीयशक्तिभिः इत्येवम् आक्रन्दनपत्राणि पाश्चात्यदेशान् प्रति प्रेषयन्ति। नियतरूपेण, अविश्रान्तरीत्या च एतादृशी वार्ताः प्रेषयन्ति। एवंविधं साहित्यं 'संपीडन साहित्यं' (atrocity literature) नाम्ना प्रख्यातम्। दलितान्, दुर्बलांश्च ब्राह्मणीयवर्गाः पीडयमानाः इति निरन्तरप्रचारः जायते तथा च भारते हस्तक्षेपं कर्तुं united nations इत्यादि संस्थाः एतैः आहूयन्ते (p 125, 185)।
 
पाश्चात्यप्रशासनानि/तत्संबन्धिविद्यासंस्थाः
·        पाश्चात्यप्रशासनानि भारतदेशस्थानाम् राष्ट्रविरोधिविदुषाम् सम्माननसत्कारैः तोषणेन, राष्ट्रप्रतिकूलकथनानां निर्माणेन च देशविरोधिशक्तीनां प्रोत्साहने प्रमुखं स्थानं वहन्ति।
·        भारते व्यक्तिस्वेच्छा-उल्लङ्घनम्, दलितानां, जीससीयानां दमनम् इत्यादि विषयेषु शोधग्रन्थान् निर्माय देशस्योपरि दोषारोपणं कुर्वन्ति। समये प्राप्ते अभिशंसितुं, देशं विभङ्क्तुमपि च पूर्वरङ्गनिर्माणं कुर्वन्ति। 
·        पाश्चात्य नेतारोऽपि अस्मद्देशीयाभिः  दलितसंस्थाभिः संभूय व्यवहरणेन एताः देशविरोधिकार्येषु प्रचोदयन्तः दृश्यन्ते।
·        धर्म स्वेच्छा भारते न विद्यते इति तेषां वादः। धर्म स्वेच्छा नाम स्वेच्छया धर्मान्तरीकरणम्। ईषदपि निरोधं अमर्षयन्तः विश्वस्य सर्वेषु राष्ट्रेषु जीससीयानां रक्षणार्थम् (अर्थात् प्रचारार्थं) विश्व-धर्मस्वेच्छा-स्मृति नाम्नीं स्मृतिं अमेरिका सर्वकारीयाः अरचयन् (p 271)। तेन विश्वस्य सर्वेषु राष्ट्रेषु (यत्र पालकानां क्लैब्यं स्फुटं दृश्यते) हस्तक्षेपं कर्तुं शक्नुवन्ति। भारते यावती स्वेच्छा वर्तते तावती न कुत्रापि वर्तते, तथपि तूष्णीं कलङ्कनेन, उपालंभेन च राष्ट्रस्य इतोपि शक्तिहननं कुर्वन्तः सन्ति।
 न केवलं भारते अपितु अन्येषु राष्ट्रेष्वपि एवमेव कुदृष्ट्या पाश्चात्यैः कथं हस्तक्षेपः क्रियते इत्यपि अस्मिन् ग्रन्थे प्रदर्शितम्। श्रीलङ्कायामपि आङ्ग्लेया एव आर्य-द्रविड नाम्ना कलहोत्पादनं आरब्धवन्तः। गच्छ्ता कलेन स एव अन्तर्युद्धरूपेण परिणतः अभवत्। एवमेव रुवान्डा इत्यदि देशेष्वपि पाश्चात्याः स्वकीयां विभजनशीलितां प्रादर्शयन्। मार्जालयोः कलहे मर्कटस्येव लाभस्वीकरणं, धर्मान्तरीकरणं च तेषां प्रणाली।
त्रिशूलेन पथा विद्वांसः, धर्मप्रचारकाः, सर्वकाराश्च संभूय कथं वा कार्यं निर्वहन्ति , साम-दान-भेदोपायैः देशस्य सर्वाण्यङ्गानि शक्तिहीनानि कुर्वन्ति इति प्रदर्शनेन प्रमादघण्टिकाः श्रावितवन्तौ एतौ ग्रन्थलेखकौ। तन्द्रायामेव यदि वयं वसेम, तर्हि भविष्यच्चित्रपटः कथं भवेत् इत्यपि पूर्णरूपेण आविष्कारः कृतः।

No comments: